(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Mahabharat Part 4 | Virat Parva | महाभारत | विराट पर्व


॥ श्रीः ॥
4.2. अध्यायः 002
Mahabharata - Virata Parva - Chapter Topics
युधिष्ठिरेण भ्रातृभिः सह मन्त्रणेन विराटनगरे निवासनिर्धारणम् ॥ 1 ॥ तथा स्वस्य यतिवेपपरिग्रहेण विराटसभास्तारीभवनकथनम् ॥ 2 ॥
Mahabharata - Virata Parva - Chapter Text

वैशम्पायन उवाच । 4-2-0x(2972)(28166)
निवृत्तवनवासास्ते सत्यसन्धा मनस्विनः।
अकुर्वत पुनर्मन्त्रं सह धौम्येन पाण्डवाः ॥ 1 ॥ 4-2-1(28167)
अथाब्रवीद्धर्मराजः कुन्तीपुत्रो युधिष्ठिरः।
भ्रातॄन्कृष्णां च संग्रेक्ष्य धौम्यं च कुरुनन्दनः ॥ 2 ॥ 4-2-2(28168)
द्वादशेमानि वर्षाणि राज्याद्विप्रोषिता वयम्।
त्रयोदशोऽयं संप्राप्तः कृच्छ्रात्परमदुर्वसः।
स साधु कौन्तेय इतो वासमर्जुन रोचय ॥ 3 ॥ 4-2-3(28169)
त्रयोदशमिदं प्राप्तं क्वनु वत्स्यामहेऽर्जुन।
अबुद्धा धार्तराष्ट्रैश्च समग्राः सह कृष्णया ॥ 4 ॥ 4-2-4(28170)
अर्जुन उवाच। 4-2-5x(2973)
तस्यैव वरदानेन धर्मस्य मनुजाधिप।
अज्ञाता विचरिष्यामो नराणां भरतर्षभ ॥ 5 ॥ 4-2-5(28171)
यानि राष्ट्राणि वासाय कीर्तयिष्यामि कानिचित् ।
रमणीयानि गुप्तानि तेषां किंचित्तु रोचय ॥ 6 ॥ 4-2-6(28172)
रम्या जनपदाः सन्ति बहवस्त्वभितः कुरून् ।
पाञ्चालाश्चैव मत्स्याश्च साल्ववैदेहबाह्लिकाः ।
दशार्णाः शूरसेनाश्च कलिङ्गा मागधा अपि ॥ 7 ॥ 4-2-7(28173)
विराटनगरं चापि श्रूयते शत्रुसूदन ।
रमणीयं जनाकीर्णं सुभिक्षं स्फीतमेव च ॥ 8 ॥ 4-2-8(28174)
नानाराष्ट्राणि चान्यानि श्रूयन्ते सुबहूनि च ।
यत्र ते रोचते राजंस्तत्र गच्छामहे वयम् ॥ 9 ॥ 4-2-9(28175)
कतमस्मिञ्जनपदे महाराज निवत्स्यसि ।
मा विषादे मनः कार्यं राज्यभ्रंश इति क्वचित् ॥ 10 ॥ 4-2-10(28176)
युधिष्ठिर उवाच। 4-2-11x(2974)
एवमेतन्महाबाहो यथा स भगवान्प्रभुः।
अब्रवीत्सर्वभूतेशस्तथैतन्न तदन्यथा ॥ 11 ॥ 4-2-11(28177)
अवश्यं त्वेव वासार्थं रमणीयं शिवं सुखम्।
संमन्त्र्य सहितैः सर्वैर्द्रव्यमकुतोऽभयम् ॥ 12 ॥ 4-2-12(28178)
मात्स्यो विराटो बलवानभिरक्तोथ पाण्डवान्।
धर्मशीलो वदान्यश्च वृद्धः सत्स्वपि संमतः ॥ 13 ॥ 4-2-13(28179)
गुणवाँल्लोकविख्यातो दृढभक्तिर्जितेन्द्रियः ।
तत्र मे रोचते पार्थ मत्स्यराजान्तिकेऽनघ ॥ 14 ॥ 4-2-14(28180)
विराटनगरे तात मासान्द्वादशसंमितान्।
कुर्वन्तस्तस्य कर्माणि वसामो यदि रोचते ॥ 15 ॥ 4-2-15(28181)
यानियानि च कर्माणि तस्य शक्ष्यामहे वयम्।
कर्तुं यो यत्स तत्कर्म ब्रवीतु कुरुनन्दन ॥ 16 ॥ 4-2-16(28182)
अर्जुन उवाच ॥ 4-2-16x(2975)
नरदेव कथं कर्म तस्य राष्ट्रे करिष्यसि ।
मनुजेन्द्र विराटस्य रंस्यसे केन कर्मणा ॥ 17 ॥ 4-2-17(28183)
अक्लिष्टवेषधारी च धार्मिको ह्यनसूयकः ।
न तवाभ्युचितं कर्म नृशंसं नापि कैतवम् ॥ 18 ॥ 4-2-18(28184)
सत्यवागसि याज्ञीको लोभक्रोधविवर्जितः ।
मृदुर्वदान्यो ह्रीमांश्च धार्मिकः सत्यविक्रमः ॥ 19 ॥ 4-2-19(28185)
स राजंस्तपसा क्लिष्टः कथं तस्य करिष्यसि।
न दुःखमुचितं किंचिद्राजन्पापमतेर्यथा।
स इमामापदं प्राप्य कथं घोरां तरिष्यसि ॥ 20 ॥ 4-2-20(28186)
वैशम्पायन उवाच। 4-2-21x(2976)
अर्जुनेनैवमुक्तस्तु प्रत्युवाच युधिष्ठिरः ।
शृणु त्वं यत्करिष्यामि कर्म वै कुरुनन्दन ॥ 21 ॥ 4-2-21(28187)
विराटं समनुप्राप्य राजानं मात्स्यनन्दनम् ।
सभास्तारो भविष्यामि विराटस्येति मे मतिः ॥ 22 ॥ 4-2-22(28188)
कङ्को नाम ब्रुवाणोऽहं मताक्षः साधुदेविता।
वैडूर्यान्काञ्चनान्दानान्स्फाटिकान्राजतानपि ॥ 23 ॥ 4-2-23(28189)
कृष्णाक्षाँल्लोहिताक्षांश्च निवप्स्यामि मनोरमान्।
अरिष्टान्राजगोलिङ्गान्दर्शनीयान्सुवर्चसः ॥ 24 ॥ 4-2-24(28190)
लोहिताश्चाश्मगर्भाश्च सन्ति तात धनानि मे।
दर्शनीयाः सभानन्दाः कुशलैः साधुनिष्ठिताः ॥ 25 ॥ 4-2-25(28191)
अप्येतान्पाणिना स्पृष्ट्वा संप्रहृष्यन्ति मानवाः ॥ 26 ॥ 4-2-26(28192)
तान्विकीर्य समे देशे रमणीये विपांसुले।
देविष्यामि यथाकामं स विहारो भविष्यति ॥ 27 ॥ 4-2-27(28193)
कङ्को नाम्ना परिव्राट् च विराटस्य सभासदः।
ज्योतिषे शकुनज्ञाने निमित्ते चाक्षकौशले ।
ब्राह्मे वेदे मयाऽधीते वेदाङ्गेषु च सर्वशः ॥ 28 ॥ 4-2-28(28194)
धर्मकामार्थमोक्षेषु नीतिशास्त्रेषु पारगः।
पृष्टोऽहं कथयिष्यामि राज्ञः प्रियतमं वचः ॥ 29 ॥ 4-2-29(28195)
आसं युधिष्ठिरस्याहं पुरा प्राणसमः सखा।
इति वक्ष्यामि राजानं यदि मामनुयोक्ष्यते ॥ 30 ॥ 4-2-30(28196)
विराटनगरे छन्न एवं युक्तः सदा वसे।
इत्येवं मे प्रतिज्ञातं विचरिष्याम्यहं यथा ॥ 31 ॥ 4-2-31(28197)

इति श्रीमन्महाभारते विराटपर्वणि पाण्डवप्रवेशपर्वणि द्वितीयोऽध्यायः ॥ 2 ॥
------------


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.